पूर्वम्: ६।१।४७
अनन्तरम्: ६।१।४९
 
सूत्रम्
सिध्यतेरपारलौकिके॥ ६।१।४८
काशिका-वृत्तिः
सिध्यतेरपारलौकिके ६।१।४९

णौ इत्यनुवर्तते। षिधु हिंसासम्राध्योः इत्यस्य धातोः अपारलौकिके ऽर्थे वर्तमानस्य एचः स्थाने णौ परतः आकारादेशो भवति। अन्नं साधयति। ग्रामं साधयति। अपारलौकिके इति किम्? तपस्तापसं सेधयति। स्वान्येवैनं कर्माणि सेधयन्ति। अत्र हि सिध्यतिः पारलौकिके ज्ञानविशेषे वर्तते। तापसः सिध्यति ज्ञानविशेषमासादयति, तं तपः प्रयुङ्क्ते। स च ज्ञानविशेषः उत्पन्नः परलोके जन्मान्तरे फलम् अभ्युदयलक्षणम् उपसंहरन् परलोकप्रयोजनो भवति। इह कस्मान् न भवति, अन्नं साधयति ब्राह्मनेभ्यो दास्यामि इति? सिध्यते रत्रार्थो निष्पत्तिः। तस्याः प्रयोजनम् अन्नम्। तस्य यद् दानं तत् पारलौकिकम्, न पुनः सिद्धिरेव इति न आत्वं पर्युदस्यते। सक्षात् परलोकप्रयोजने च सिध्यर्थे कृतवकाशं वचनम् एवं विषयं न अवगाहते। सिध्यतेः इति श्यना निर्देशः, षिध गत्याम् इत्यस्य भौवादिकस्य निवृत्त्यर्थः।
न्यासः
सिध्यतेरपारलौकिके। , ६।१।४८

"अन्नं साध्यति" इति। अन्नं निष्पादयतीत्यर्थः। अत्र हि सिधिः पारलौकिके()र्थे ज्ञानविशेषे वत्र्तत इति। अस्यार्थं--"तापसः सिध्यति" इत्यादिना स्पष्टीकरोति। "उपसंहारन्()" इति। निष्पादयन्नित्यर्थः। "इह कस्मान्न भवति" इत्यादि। एवं मन्यन्ते--ब्राआहृणेभ्यो दास्यामीत्यनेनाभिप्रायेण योऽन्नं साधयति स जमान्तरे भवन्? फलमभ्युदयलक्षणं प्राप्नोति, तस्मात्? पारलौकिकेऽर्थे सिधिरत्र वत्र्तत इति पर्युदासेन भवितव्यमिति। सिध्यतेरत्रार्थो निष्पत्तिरित्यादिनेहलोकार्थतां त्वस्य दर्शयति। "तस्याः प्रयोजनमन्नम्()" इति। अन्नमुद्दिश्य प्रवृत्तत्वात्()। "तस्य" इति। अन्नस्य। "न पुनः सिद्धिरेवेति" इति। अर्ताल्लिङ्गविपरिणामं कृत्वा न पुनः सिद्धिरेव पारलौकिकीति सम्बन्धनीयम्()। सिद्धिर्निष्पत्तिरित्यर्थः। इतिकरणो हेतौ। यस्मात्? सिद्धो धातुर्वत्र्तते। अत्र सिद्धिः पारलौकिकी न भवति, तस्मान्नात्रात्वं पर्युदस्यते। स्यादेतत्? यद्यपि साक्षाद्()धातुः परलोकार्थो न भवति, पारम्पर्येण तु भवत्येव, तस्माद्भवितव्यमेव प्रतिषेधेन इत्याह--"साक्षात्()" इत्यादि। यदि साक्षादव्यवधानेन परलोकार्थो यः सिद्ध्यतेरर्थः, तत्रापि पारलौकिक इतीदं वचनं न कृतार्थं स्यात्(), तदा पारम्पर्येणापि यः परलोकार्थस्तत्र व्याप्रियेत--मा भूद्वचनवैयथ्र्यमिति। इदं तु ज्ञानविशेषे साक्षात्? परलोकार्थे सिध्यत्यर्थे चरितार्थम्(), ततो नोत्सहत एवंविधविषयमवगाहितुम्()। न शक्नोत्येवम्प्रकारे विषये नि,#एधः प्रवर्त्तितुमित्यर्थः। अथ सिद्ध्यतेः श्यना निर्देशः किमर्थः, न सिधेरित्येवोच्येत, एवं हि लघु सूत्रं भवति? इत्याह--"सिद्ध्यतेः" इत्यादि॥
तत्त्व-बोधिनी
सिध्यतेरपारलौकिके ३७३, ६।१।४८

सिध्यतेरपार। श्यना निर्देशाद्भौवादिकस्याऽग्रहणम्। तत्त्वं निश्चिनोतीति। तत्त्वनिश्चयश्चात्मविषयकः। स च परलोके उपयुज्यते।